गोसेवा प्रार्थनमन्त्राः

माता वसूनां किल रुद्रपुत्री स्वसा श्रुता(आ)दित्य गणस्य या वै।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।। 1

गावो जनन्यः पयसां प्रदात्र्यो जगद्धितायैव चरन्ति यासाम्।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।। 2

प्रातश्च सायं परि दुह्यते या च वत्सस्य नॄणां परिरक्षणाय।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।। 3

यतोग्निहोत्रं समनुष्ठितं स्याद्- यतोभिषेकः पचनं प्रपाणम्।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।। 4

गोष्ठे प्रसद्या.दथ गोचरेषु चञ्चूर्यमाणाहननीयगात्रा।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।। 5

यस्या ध्वनि.स्स्या.दृषभस्वरेषु यामाश्रिताः पितर.स्तृप्णुवन्ति।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।। 6

दोषान् समस्तान् परिहर्तुकाम-स्सेवेय भक्तिश्रितबुद्धितो याम्।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।। 7

दयां समस्ते परिवर्धयन्ती कुलस्य मे शोभितमुच्छ्रयन्ती।

सा कामधेनुर् वरदा प्रशान्ता मया(अ)र्पितां भुक्तिमिमां समद्यात्।। 8