अवधूत दत्तपीठाधीश्वराणां परमपूज्यानां
श्री गणपति सच्चिदानन्द स्वामि श्रीचरणानां दिव्याशीर्भिः
वंशीकृष्ण घनपाठिना प्रणीय श्री सन्निधाने समर्पितम्
श्री दत्त शतकम्
विकृति संवत्सर देवी शरन्नवरात्र महोत्सवः
13 – 10 -2010 सरस्वती पूजा
(विकृति संवत् दत्तात्रेय जयन्ती महोत्सवे समर्पितम्)
निवेदनम्

दत्तात्रेय स्वभाव प्रकटन पटिम प्रोज्ज्वलद् ज्ञानभासः
सर्वात्मत्वा न्मदीयं जडधिय मपि योनाविलां चर्करीति।
उत्सोत्पन्नाभ वाचं समुदयतु गुरु र्मामकीनो महेज्यः
तद्ब्रह्मण्यं भजेहं गणपति यमिनं सच्चिदानन्द दत्तम्।।

चिरतर गुरु सेवा लब्ध वाङ्मन्त्र युक्तां
शतमणिमय मालां श्री गुरोः पादपद्मे।
विधति पृणति वंशी कृष्ण आत्म प्रसाद –
प्रसृत महित विद्या विज्ञता माप्तुकामः।।
******
(पृण – प्रीणने), विध - विधाने
अवतारोद्देशः
योवातारीद् भुवीश स्सकलजनगणो त्तारणायाद्वितीयः
यश्चाविर्भूय भूयान् गुरुपदगरिम ख्यापनायैव शस्तः।
ओब्रह्मात्मा त्रिलोक्या जनिमृतिवलया न्मोचना यात्मदा यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 1
जननम्
ऋक्षाद्रौ तापसाभ्या मतुलितमहिम ख्यात दीक्षामहोभ्यां
लोकानुग्राह हेतोः प्रकटित इषितो योनसूयात्र्यृषिभ्याम्।
राकायां मार्गशीर्षे सुकृतिजगदुप स्थापनायात्रिजातः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 2
नामादि प्रशस्तिः
दत्तात्रेयाभिधां यो जगदुपकरणे सुप्रतिष्ठां पटिष्ठां
नाना कालेषु भक्ता- वनचणनिपुणां सर्वशक्तां गरिष्ठाम्।
स्वीचक्रे ब्रह्मवादि स्तुतिमतिरमणीं हर्षयित्रीं पवित्रीं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 3
यद्भूयिष्ठस्य नाम्न स्स्मृतिरपि कुरुते भस्मसात् पापराशिम्
यत्प्रेष्ठ प्रार्थनं प्राक् प्रजनयति परं पुण्यकर्मण्यपूर्वम्।
यद्द्राघिष्ठ प्रबोधो भव जलधि महो तारयेद् भाव्यमानः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 4
महत्त्वम्
संस्रष्टृभ्योपि भूया ञ्छ्रितधियि जनयन् ज्ञान वैराग्य भावं
संयच्छद्भ्योपि भूया नगणित विभव प्रापकत्वा न्नतानाम्।
सन्दातृभ्योपि भूयान् मनसिज दलने यः पटीयस्त्व हेतोः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 5
वेदरूप शुनक साहचर्यम्
चैतन्यं नित्यसत्यं जगदधिकरणं निर्द्वितीयं प्रसिद्धं
एकं सत् जीवकोटौ प्रभवति हि परं ब्रह्म सर्वात्मकं तत्।
एतत् सिद्धान्त माख्यन् विभुरयि रमते विच्छुनां साहचर्यं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 6
त्रिमूर्ति लक्षणम्
धृत्वाब्जारी कराभ्यां प्रकटयति हरे र्भाव मुच्चै स्त्रिमूर्तिः
शम्भुत्वं च त्रिशूलं डमरु मभयदं मध्यमाभ्यां दधानः।
वैधात्रं लक्ष्म बिभ्रत् त्त्वजप जपरते स्स्रक् कमण्डल्वपो यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 7
षट् चिह्नानि – भाव विकार निरासकानि
अध्यासाद् दृश्यमाना जगति जनिषु ये षड्ढि भावा विकाराः
मायायाः कार्यभूता अनुभवकरणात् सत्यताभ्रान्तिकाराः।
षट् चिह्नै रीक्षितस्स न्नपगमयति तान् योविकार्यो विकारान्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 8
दान फणितिः
आदातुं चेत्स दत्ते करयुगलमिदं नैव पर्याप्यते हि
निष्कामे बन्धमुक्तिं मुहुरपि सकलं कामितं चेत् सकामे।।
किं ब्रूयासं घृणाधि र्वितरति महितं सच्चिदानन्दनं यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 9
अवधूतत्वम्
मान स्व स्थान जाया सुत पशु सदन स्वर्ग कीर्त्यादि लिप्सा-
बन्धानां भक्तकोट्याः पर मवधुवने ज्ञान वैराग्य कान्त्यै।
योदीक्षिष्टावधूत- श्श्रुतितति लतिका धारतत्त्वप्रकाशः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 10
जगद्गुरुत्वम् (24 गुरवः)
नम्रत्वात् ज्ञान चिह्ना दिह गुरव इमे मे चतुर्विंशति र्यः
इत्यध्यारोप्य नूनं जगति च गुरुतां वस्तुजाते महान्तम्।
अच्छाध्वानं जगद्गु - र्वितिनुत गरिमा काशयामास दीप्रं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 11
यदुराजोपदेशः
संसाराख्ये दवाग्नौ सकलजनगणे दह्यमानोपतप्ते
गङ्गाम्भो मग्न हस्ती व नरप यदुनादृश्यतात्म प्रशान्तः।
ज्ञानाम्भोधित्व हेतो र्मितिरहितमुदो मर्म संप्रार्थितं यत्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 12
ग्राह्य त्याज्यात्मकत्वाद् विषय गुण तति र्वस्तु सर्व न्त्रिलोक्यां
स्वं स्वं पाठं प्रभिन्नं त्वनवरत मुदा हृत्य संशिक्षयेत।
सूक्ष्मेक्षात स्समीक्ष्य प्रमुद मनुभव न्नस्म्यबोधीति येन
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 13
पृथिवी
आद्या गुर्वी म उर्वी प्रसहत इतरा क्रम्यमाणा स्थिरा हि
वोड्ढ्री धैर्यं, परार्था सकल जन कृते ह्यात्मसर्वस्व दाना।
पारार्थ्यं ह्यन्वशिक्षं धृति मिति वदता ख्यापितं येन तत्त्वं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 14
वायुः
आस्ते वायु र्गुरु र्मे खिल जग दुपकृ द्वस्तु संसर्गतो यः
गन्धं वोढापि वृङ्क्ते प्रसृमर इह त द्वस्तु दोषं गुणञ्च।
निस्सङ्गत्वं त्वशिक्षं पर मिति वदता ख्यापितं येन तत्त्वं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 15
आकाशः
सर्वव्याप्यम्बरं वै घट मठ जठरै र्भिन्नता माप्य दृष्टं
वस्तुत्वाद् यद्विशालं मिति गति रहितं स्तोन्त आदि र्न यस्य।
आत्मानन्त्यं तथैवे त्यधिगतमिति यो वावदी त्यात्मरूपी
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 16
आपः
आपो गुर्व्यो विभान्त्यो मम किल सदया स्स्वच्छ सत्त्वा अपीष्टाः
निर्वर्णा स्स्निग्ध रूपा विरहित रुचयो या रसात्मान उक्ताः।
तद्व न्नैर्मल्य माप्या न्मुनि रिति वदता ख्यापितं येन तत्त्वं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 17
अग्निः
सप्तार्चि स्सर्वभक्षो गुरुपद मपि मे स्वीकरो त्यच्छकाशः
तेजस्वित्वात् समस्तं ग्लपयति कलुषं दोषसर्वस्वनाशः।
तस्मा न्मे पावकत्वं समधिगत मिति ख्यापितं येन तत्त्वं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 18
चन्द्रः
सोमोलञ्चक्र एतां मम गुरुपदतां स्वीय वृद्धि क्षयाभ्यां
देह स्सर्वस्य जातिं मृति मपि वहति प्रस्थितो ह्येष मृत्युः।
दृश्यं नश्यं तदात्मा स्थिरमिति वदता ख्यापितं येन तत्त्वं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 19
सूर्यः
आचार्यो भानु रीष्टेहनि विविधकरो यो दरीदृश्यमाणः
भाण्डे नद्यां तडागे सलिलधि झरगो भिन्नरूपोद्वय स्सन्।
नानाजीवस्थ आत्मा परि चिनु बहुधे - तीरितं येन तत्त्वं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 20
विहङ्गः
आस्ते पक्षीह देष्टा कलरव इह मे व्याधहेत्वा प्रमीतः
जाले लग्नां वधूं स्वां शिशुगण सहिता मीक्षिता3 दुःखदष्टः।
मोहो दुःखाय कॢप्तो स्तु तव विविदिषा चेतयेति ब्रुवाणं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 21
समुद्रः
यत्रासंख्येय रत्ना द्यगणित निधय स्सन्ति गम्भीर गर्भे
स्रोतो ज्यायः कनीयो यदुत च सरिता मेकरूपः प्रशान्तः।
गाम्भीर्यं शान्तताब्धे रवगत मिति य स्सञ्जगादाद्वितीयः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 22
अजगरः
न्यूनं मृष्टं प्रभूतं यदुपगति मियाद् तेन दिष्ट्या सुतृप्तः
आहृत्यैवेह नूनं सुखमिव भविता वाहस स्स व्रती सन्।
प्राप्ताहारेण तृप्तिं त्ववगमयति मा मित्यवोच न्महान् यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 23
पतङ्गः (మిడత)
दृश्यं यद्यत् समस्तं कनक मपि मही योषि दादीनि वाञ्छन्
नश्ये त्कामै र्वितृण्णो ह्युपतपन गतो यः पतङ्गेन तुल्यः।
मा भाक्षी र्वाञ्छिताग्नौ तपन मिति पुरा बोधको योप्रमेयः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 24
भ्रमरः
भूयोल्पेभ्य स्सुमेभ्यो मधु चयन मसौ यद् द्विरेफः प्रकुर्यात्
शास्त्र ग्रन्थेभ्य एवं रस मिह चिनुयात् क्वापि नोपेक्षिषीष्ट।
शस्तं ग्राह्यं समस्ता दिति मधुकरतो ग्राहि चेति ब्रुवाणं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 25
एकाहे भोक्ष्यमाणं त्वल मधिक मपि क्षायय त्यस्तु चित्तिः
सम्पत्तिं लोभहेतुं त्वनु मरण मत स्सावधानो भवे र्भोः।
एतौ पाठा वशिक्षं मधुकर गुरुतो हीत्थ मूचे गुरु र्यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 26
गजः
सर्वान् दोषा नतीयात् सुलभ मतिमनाः कामिनीकामना या
तद्विद्ध स्सन् प्रमत्तः प्रबलकरिवरो बन्धतामेति मोहात्।
योषिद्वर्ज्या प्रतीके त्यपि हि परमता माप्तुकामे य ऊचे
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 27*
मधुहरः
मह्यं त्वेत न्मदीया जनतति रिति या लुभ्यता सञ्चिता श्रीः
तत्सर्वा हार्यते वै मधुहर सदृशै श्चोर राजादिभि र्द्राक्।
लोभो नाशाय कॢप्ते त्यनुपद मपि मे बुद्धि रासे त्यवादीत्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 28
हरिणः
शब्दाकृष्टाः प्रणद्धाः किल हरिण गणा वेगवन्तोपि तस्मात्
ग्राम्यं गीत्यादि सर्वं भगव दितरगं मादयेद् बुद्धिशक्तिम्।
स्वान्तं वार्यं मुमुक्षो रमुक विषयतः पाठ मित्थं प्रवक्ता
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 29
मीनः
आचार्यो मीन मूर्ति र्भवति च बडिशै र्मृत्यु मापद्य दुःखं
जिह्वा चापल्य हेतो रस रति वशगो बोधयामास नश्यन्।
आहारे वाचि जाग्रत् कुशल मपि सुखं प्राप्नुवीतेत्यवोचत्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 30
वेश्या
वेश्या काचिद् गुरु र्मे विट सुख विरता पिङ्गला प्रेक्षमाणा
आत्म न्येवास्ति नन्दो बहि रिति हि मृषा वित्तवेद्या स्म धन्या।
एकान्तानन्द मित्थं विदित मिति मया बोधको यः प्रदेष्टा
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 31
वर्तिका (अल्पीयान् पक्षिविशेषः)
त्रस्ता श्येनैः प्रकामं नभसि च दलिता वर्तिका क्रव्य खण्डे
बीजं दुःखस्य हित्वा सुख मनुपद मै न्मुख्य पाठ न्त्वबोधीत्।
ग्राहो दुःखाय कल्प्ता7 त्यजन मतिसुखा यैव मुक्तं हि येन
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 32
शिशुः
आचार्यं मेपि मन्वे स्तनप मह ममुं शून्यचिन्तं प्रशान्तम्
आनन्दाब्धौ निमग्नं विधि गुण रहितं योगिवर्यास्पदाप्तम्।
चिन्ता मुष्णाति नूनं सुख मिति विदितं यो भणत्याप्तकामः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 33
कन्यका
बोद्ध्री कन्या यवाना मवहनन रता हस्त भूषां ध्वनन्त्योः
निष्कास्यैका मशब्दा, बहुषु कलहता भाषणं स्या द्द्वयोस्तु।
एकान्त न्तूत्तमं स्यात् तपसि किल ततो ज्ञायि येनोक्त मस्याः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 34
शरकारः
पूर्वं रथ्या निषण्ण श्शरकृ दिह महा राज यात्रानभिज्ञः
व्यावृत्य स्वं मनो य स्सकल विषयत श्चैकधी रास सोपि।
बोद्धैकाग्र्यं ततोहं मनस उपरतिं बोधितोस्म्याह योसौ
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 35
सर्पः
वल्मीके चोपदीका विरचित सदने स्वीयता माप्य भोगी
देहोनित्यो ध्रुवं तत् किमिह तदवने गेहनिर्माण कार्यम्?
आपातान्तं कथञ्चि न्निवस च सदने मेति पाठं य आह
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 36
ऊर्णनाभिः
जालं निर्मीय चित्रं चिरतरमपि य स्तूर्णनाभि स्तथैव
सर्वं सर्गं विधत्ते तमुप रमयति स्वैर कर्मा परेशः।
स्मारं स्मारं तदीयात् कृतिहरणविधे र्बोधितोस्मीति वक्ता
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 37
कीटः
पेशस्कृद्ध्यान मग्न स्त्वनितर धिषण स्तत्समानं शरीरं
यश्चापत् कीटकोयं भगवदनुभवे शुद्ध दृष्टान्त भूतः।
तीव्रैकाग्र्य प्रबोधात् स च गुरु रिति यो वावदी त्यत्रिपुत्रः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 38
सर्वं वस्तु प्रशस्तं वदति हि महितं सर्वदा पाठ मेकं
एवञ्चाप्तां सुविद्यां कलयति नितरां नित्य रोमन्थवद्यः।
सत्य ज्ञानं ददौ द्राङ् निरवधि यदवे पक्वचित्ताय देष्टा
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 39
सरोवरे तपः
शिष्या स्ते स्याम देवे त्यनिश मनुसर न्मौनियूनां तु दीक्षां
संप्रेक्षेयेति तूर्णं सरसि च निविशन् दिव्य वर्षा नतीत्य।
योग्यत्वाप्त्यै प्रतीक्षा मुपदिशति विभुः कारणं योत्रिसूनुः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 40
स्वान्तस्था दोषपङ्का यदि न परिहृता स्सुप्रतीक्षा मुधा स्यात्
इत्येवं दर्शनार्थं सहरसवनिता सङ्गलग्न स्सुदृष्टः।
शाक्तैश्वर्यं मयीति प्रकटितमहिमा योच्छसौन्दर्यकन्दः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 41
प्रह्लादोपदेशः
गर्भावस्थासु भक्तः कनककशिपुज- श्श्रीनृसिंहानुगामी
वार्धक्ये चोपदिष्टो हरिपदरसिको येन संसार मुक्तः।
संस्कारेप्यात्मबोधो गुरुवचनवशादेव भावीत्यदर्शि
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 42*
मात्रुपदेशः
पुत्रो गन्तेति दुःखाद् विगत निज विदा यानसूया तु माता
सूतं देहं विहातुं शपथमिव पुरा वादिनी मोह तप्ता।
देहात्म भ्रान्ति मस्या विदध दपि निजा सृग्धरां मोचयन् यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 43।।
माद्यन्तो माययात्ता स्स्व सुत परि जन भ्रान्ति लग्ना विदोपि
तत्रात्यन्तं समर्था गुरुवरकरुणा नास्ति साम्यं क्वचापि।
मुह्य न्मातु र्भ्रमं यो ग्लपय दविकलो बोधको निर्ममोपि
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 44
इन्द्र वरप्रदानम्
यं संश्रित्यैव पूर्वं दितिजनि कुलराड् जम्भदैत्याहत स्सन्
सुत्रामाप्यायितौजा उरुगुरु वरिम श्रीभि रश्रान्त आस।
संविभ्रान्तानघा नि र्णुदित निजपृथु श्रीक रक्षां स्यजैषीत्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 45
अनघा - मायाशक्तिः
यन्निष्ठास्त्यद्वया सावरणकृति परा यैव विक्षेप रूपा
विस्मार्यैव स्वरूपं क्षिपति हि बहुधा येन्द्रियार्थेषु चित्तं
पापे जीवान् प्रचोद्या प्यपि पुन रनघा सञ्जय त्यच्छकृत्या
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 46
प्रस्रोतांसीन्द्रियाणां कतिचन विविधे भिद्रवन्तीन्द्रियार्थे
संयन्तुं शक्नुवाने नियमित मनसि प्रोज्ज्वलन्ती यदीया।
तद्भिन्ने जृम्भमाणा ग्रसति तु बहुधा यस्य शक्तानघाख्या
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 47
धातृ – सूर्य वरदानम्
नष्ट प्रज्ञाः प्रलीना स्तमसि महति ते धातृ भान्वादि देवाः
यं किङ्कर्तव्य मूढा- स्स्वविषयक रुजां नाशनायाश्रिता श्च।
चित्रं लीला महिम्ना ह्यधिगत सुधियो मोदिता स्स्वस्थताप्ताः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 48
कृत्याकृत्ये विवेक्तुं प्रभवति यदि चे- न्मोह विद्धं न चित्तं
दैवात् पूर्वं प्रविद्धो रवि रपि दुहितु स्सङ्ग वाञ्छाभितप्तः।
जिह्रेति स्म स्व पाप क्लमभर विकलो यद्गुरोः प्रोद्धृतोभूत्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 49
स्रष्टाप्येवं स्वसर्गे बत सृजनकृते धित्सु रासी दविद्यां
सर्वोल्लीनाभिशक्तां ज्वलन निभचणां पञ्चपर्वां यदीयाम्।
तीव्र ध्यानात् तदस्या यदुपगतिपरो विस्मृत श्रौत विज्ञः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 50
अनघा शक्ति संश्लेषः
दुस्साध्या मप्रतर्क्या मनितर सुशकां स्वान्त वाचा मनीक्ष्यां
संश्लिष्टो योनघां तां जलज किसलया- ब्बिन्दुव न्निर्विकारः।
तद्वक्त्राद् वेधसे स्व श्रुतिगण सुविदं स्फोरयामास पूर्णं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 51
आश्रम पदम्
किं व्याख्यामो यदीया श्रम पद ममलं ब्रह्मचर्य व्रतेतं
षण्णां षण्णां गुणानां गृहमपि च सतां चिद्वन प्रस्थितानाम्। सन्न्यासेन प्रसिद्धं रिपु दुरित मते स्सह्यगिर्यास्थितं वा
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 52
बहुल रूप दर्शनम्
यस्यानिर्वाच्य चर्या मुनि विडनुगुणा स्यात् कदाचि द्विरुद्धा
पाखण्डासंस्कृतार्हा- वगुणित मलिना दृश्यते वा कदाचित्।
भक्तेषूढ्वा घृणां वा कलुष परिहरा त्रायते शाम्भवी च
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 53
गुणत्रयातीतत्वम्
सत्त्वेनोद्रिक्त मास्ते क्वचिदथ रजसा स्यात् तमोभि र्गुणै र्वा
लोके सर्व स्वभावः किल गुण रचितो गौण मुख्य प्रभेदात्।
योतीतो वर्तते तत् त्रितय मतिमति स्स्व11 स्थितौ वस्तुतस्तु
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 54
कार्तवीर्यः - सेवनम्
निस्त्रैगुण्य व्रतात्तं प्रभज दसुलभं सर्वसङ्गोज्झितं यं
पाण्योः प्राबल्य मिच्छन् भगवत उदितां सानुकम्पां दृशं च।
आगत्यासौ ददर्शा- र्जुन पद विदितो हैहयः कार्तवीर्यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 55
शिष्यादाने प्रतीक्ष्णो हतकरयुगलं सेवया श्रन्थमानं
प्रेक्षाया ईक्षमाणं स्मित हृत कलुषो योनुजग्राह दीनम्।
श्रद्धा भक्ती यदि स्तो भवति हि सुकृती त्येव सन्दर्शयंश्च
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 56
कार्तवीर्य वरदानम्
सन्तुष्यन् कार्तवीर्या - र्जुनपरिचरितो दत्त बाहून् सहस्रं
राज्ञे क्ष्मायाः प्रभुत्वं विपुलतरविदं धर्म मार्गोपदेशम्।
नष्टद्रव्यापकत्वं वयसि च चरमे सुप्रसिद्धा न्मृतिं यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 57
अनघा व्रतोपदेशः
गार्हस्थ्ये दृश्यमानं स्वमपि च दयिता मष्ट पुत्रान् भजस्व
अष्टम्या मिष्टदाना वसर शुभदिने चैतदेवानघाख्यम्।
नित्यं भक्तेष्टदायि व्रत मति सुलभं यस्तु राज्ञे दिदेश
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 58
धर्मोपदेशः
लोकं दध्रे धरिष्यन् धरति खलु सना धर्म एवेति बुद्ध्वा
वेदोक्तं कर्म जातं परिचर सुधिया धर्म मेवाद्रियस्व।
इत्युक्त्वा यस्तु धर्मा न्तरबहुविषयान् सन्दिदेशेश्वरो हि
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 59
शास्त्र विरोध परिहारः
शास्त्राणां गूढतत्त्वं विविध विषयिणां गम्य मेकं हि तेषां
वैविध्य ञ्चाध्वनां स्यात् पर मिह चिनुया दन्तिमं लक्ष्य मेकम्।
जानीम स्तद्रहो यद् गुरुवचन बला देकवाक्यत्व माप्य
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 60
सर्वविध जीविका संमता - सप्तोदाहरणी
निम्नेयं जीविकेत स्समधिक गुणिनी वृत्ति रन्येति भेदो
भावो युष्मासु मा भू दुपकरण परा सर्व विद्या विशुद्धा।
आमोक्षोत्कर्ष मस्यां कथयति कथया सप्तकृत्वो य एतां
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 61
बृहस्पत्युपदेशस्य अन्वादेशः
शुक्राध्याप्यानुकृष्टै स्सुरगणयुवकै रर्थितो देवदेष्टा
अन्या विद्या दिशन् तद् गत विषयतया गूढ मूचे मघोने।
अन्वादिश्यापवर्गो -पकरणगुणतां योपरासां ब्रवीति
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 62
शिल्प शास्त्रम् - विधिज्ञः
बह्वीनां च प्रजानां प्रतिदिन सुलभा जीवनायोपयुञ्जन्
शिल्पी पुण्यं विधिज्ञः प्रतिफल मृजुना स्वीकरोत्यध्वना स्म।
सम्पन्नो नित्यदाना र्जित पद गरिमे त्युक्तवान् यो महत्तां
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 63
सङ्गीत काम शास्त्रे - विशालाक्षः
सङ्गीते काम शास्त्रे परिमितनिपुणो प्राग् विशालाक्ष नामा
पत्न्या साकं प्रकामं स्वर गण रसिक स्स्वर्ग गन्धर्व लोकौ।
संप्राप्तो ब्रह्मलोकं, त्विय महितो- पास्ति रित्यब्रवीद्यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 64
मन्त्र शास्त्रम् - वेदशर्मा
मन्त्रानुष्ठान दक्षो निज तनय शुचा चिन्तितो वेदशर्मा
यं भिक्षु व्याज दृष्टं निरुपम वरदं चाश्रित स्तृण्णरोगः।
आत्मीयां मन्त्र सिद्धिं दलितजनकृते स्वर्पयन्नास धन्यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 65
स्वधर्म निरतिः - विष्णुदत्तः
त्रिस्सन्ध्या मग्निहोत्रं द्वि रनितरमना वेद पाठादि कर्मा-
णीजान स्सत्प्रवृत्तो विरहित फल धी श्श्रोत्रियो विष्णुदत्तः।
निर्विण्ण स्स न्ननीहो प्यति कुतुकतया यद्दिदृक्षातुरोभूत्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 66
ब्रह्मराक्षस कृतं प्रतिदानम् (प्रत्युपकारः)
मध्याह्ने वैश्वदेवा- र्पित बलि कणभुग् ब्रह्मरक्षः कृतार्थं
शुद्धं कापालिकादि प्रचुर वृषलता संस्कृतावेक्षितं यम्।
दूरात् सन्दर्श्य पुण्यं प्रतिदद दधिकं विष्णुदत्ताय भूयः13
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 67
दर्शनम् - प्रार्थनम्
श्वा विद्वांश्च श्वपाक स्सकल भुवनगो जन्तु रस्यैव रूपं
इत्थं विज्ञान माप्त्रा श्रुति तति विदुषा विष्णुदत्तेन यस्य।
दिव्यानुग्राह पूर्णा गृह पितृ करणे भोक्तृता प्रार्थिता च
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 68
श्राद्ध भोजनम्
श्राद्धे भुक्त्वा द्विजस्या- नल रवि सहितो विष्णुदत्तस्य पित्र्ये
सन्तन्वानो विमुक्तिं पितृकुल निचये कर्म सिद्धान्त दक्षः।
कर्मण्यत्वस्य देष्टा सुकृति जनहितः कर्मगम्यो य एव
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 69
विष्णुदत्त द्वारा लोकानुग्रहः
निष्कामानुष्ठिति र्वै सकल बुध नुता साधयेत् सा पुमर्थान्
इत्याख्यातुं हि लोके सुगुणमणिमये विष्णुदत्ते प्रशस्तम्।
स्वीयं तत्त्वं व्यधायि क्रम दित भव सं बन्ध मोहञ्च येन
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 70
प्रारब्ध कर्म परिपाकः (दम्पत्योः व्रताचरण पूर्वक व्याधिनिवारणम्)
प्रारब्धं क्रूर कर्म क्षपयतु तदित व्याधि बाधा निवृत्त्यै
तस्माच्छास्त्रोपदिष्ट व्रत विधि चरणे दम्पती संप्रवर्त्य।
विप्रारिष्टा नशाम्यद् यजन महिमतो विष्णुदत्तार्पितो यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 71
युक्ति प्रदर्शनम् – पिशाचात् कुण्डल विशाला दम्पत्यो रक्षणम्
योषि त्काङ्क्षा पिशाचं झडिति परभृतं झण्टिकं कुण्डिने प्राक्
युक्त्या मन्त्रै र्बबन्धा- वितु मुत तरुणौ कुण्डलं वै विशालाम्।
मन्त्रं मन्त्रेण युञ्ज्या दिति यदुपहितं वेदितं विष्णुदत्तात्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 72
वैराग्यम् – भवबन्धभीः
योतन् व्याप्नोति विश्वं स तु किमिह पर स्संसृते र्बन्ध मेति?
मा भैषी धर्म- कर्मा भव तत विरजः प्रव्रजन् मुक्ति मेहि।
इत्थं बोधं प्रकुर्वन् द्विजयुवक वरं योनुजग्राह शिष्यात्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 73
शास्त्रोपकारः
चार्वाकं देह मात्र स्त्वमसि किमधिकं मा रुदेति ब्रवीति
शास्त्राण्यन्यानि लोकान् मृति मनु बहुधा वर्णयन्ते ततोन्ते।
अद्वैतादेव दृश्य भ्रम निरसनता- मोक्ष इत्यब्रवीद्यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 74
हस्त मस्तक संयोगः
ज्ञानं विद्यार्जनादे र्लसतु परिणति र्वृद्ध शुश्रूषया च
आप्या विज्ञान सम्पद् गुरुवर महिमा धारिणी निश्चिता हि।
मूर्ध्नि स्पृष्ट्वा- र्जुनस्या- पहृत कलुषिणीं योगविद्यां य आधात्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 75
कार्तवीर्यावसानम्
विद्वानस्मि प्रभुत्वं मयि हि न तु मद श्श्रेष्ठ एवाह मित्थं
देवर्षीन् हेडयन् गो हरण मलिन कृत् कार्तवीर्यो वसाने।
पश्चात्तप्तोथ वीरात् समर भुवि मृतो भार्गवाद् यद्वरेण
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 76
रेणुका जमदग्नि संस्कारः
दुष्टै राज्ञः कुमारै स्तपसि परिगते जामदग्नौ हते च
मातु र्वै रेणुकाया वचन मनुदिशद्- भार्गवेणार्थितस्य।
पित्रो रन्त्येष्टिकर्मा चरितु मभयदा यस्य पूर्णा घृणाप्ता
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 77
क्षत्रिय संहारः - प्रायश्चित्तिः
दीर्घावध्याधिपत्यात् मदभरित खल क्षत्रियाणां कुलानां
संहर्ता रामनामा भृगुकुल तरणी रुद्रदेवस्य भक्तः।
स्वीयाना मागसां सं- परिहृति मयितुं संश्रितो यं महिष्ठं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 78
प्रायश्चित्तोपदेशः
कर्तव्या धर्मरक्षा परमपि तदितो जातिवैरं न कार्यं
पश्चात्तप्तेन साध्या ह्यघ निचय हति स्सापि यागेन चैव।
सम्बोध्यैवं स्वयं यो यजनविधि ततिं कारयामास रामं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 79
यज्ञ दीक्षा
चित्रा कर्मादि दीक्षा स्खलित नियम भाग् ब्रह्मचारी तु रामः
आचार्यत्वं गृहीतं विधि तदितरता तीत तत्त्वेन येन।
मौनीशा स्सुष्ठु दीक्षा प्रमुदित मनसो भांश्च यत्सन्निधाने
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 80
यज्ञ महिमा
अर्क्येतैत न्महेज्या महिम सुगुणता कीदृशीति ब्रवाम?
आचार्य स्त्वद्वितीय त्रिभुवन गरिमा चर्त्विजो ब्रह्मनिष्ठाः।
यज्वा हर्यंशजात श्श्रुतिशिरसि लस- द्ब्रह्मवाद्यं यदीयं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 81
ब्रह्मवाद्यम्
वक्ता चेत् सर्वविज्ञः प्रभु रखिल विदां गूढतत्त्वास्पदं किम्?
श्रोतार स्सर्व शास्त्रो न्मथन परिणता ब्रह्मयज्ञो निमित्तम्।
निस्सन्दिग्धं समस्तं जडमतिषु सुधी र्यत्प्रभावा न्मखेभूत्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 82
सन्ध्या तत्त्वम्
सन्ध्योपास्तौ निषण्ण स्सुरमुनि निवहा- गोचर स्सन्नमेयः
सुत्याहे यज्ञदीक्षा प्रचरण समये यस्तिरोभू न्महात्मा।
पश्चादेत्य प्रवक्ता प्रकृति विकृतिम त्सान्ध्यतत्त्वं सभायां
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 83
पिङ्गल नागः – मोक्षः
निश्चेतुं शक्यमेवं न च तदितरधा यस्य सत्त्व न्तदस्य
ज्ञीप्साया श्चित्र चर्या- वगुण सुगुणता भ्रान्तिमान् पिङ्गलोभूत्।
मोक्षेच्छुं स्वे शिवेङ्गे निहित विद ममुं यो विलीनं चकार
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 84
यज्ञ तत्त्वम्
पत्नी श्रद्धा तु यज्वा सतनु रपि भवे द्यज्ञ सम्भारभाग्घि
मन्युं कृत्वा पशुं यद्बलि मिह ददते ज्ञानयज्ञ स्स यस्मात्16।
विद्वद्भि श्चाध्यगीष्ट क्रतुविधि समये यज्ञ सिद्धान्त सारः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 85
अभ्युपगमः
ब्रह्मज्ञानापकं यत् मख निहित महा गूढ तत्त्वं प्रकृष्टं
जानीतां नित्य यज्वा भवतु च सकलो धर्ममार्गावलम्बी।
इत्येवं ख्यापयन् यः क्रतुगति मुदितः प्राचरी द्यायजूकः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 86
यज्ञ समाप्तिः
यस्याध्यक्ष्ये प्रतिष्ठां प्रसभ मुपनिष - त्सार सर्वस्व विद्या -
संवीतो भार्गवस्य क्रतु रवभृथ पर्यन्ततां प्राप पूर्णः।
कृत्स्ना पृथ्वी प्रदत्ता सपदि च मुनये सार्णवा कश्यपाय
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 87
उपदेशः
आप्यं सर्वं समाप्तं तदपि च विदितं यत्तु वेद्यं च लौक्यं
आप्तव्य स्तूपदेशो गुरुमुख गलितो यो हि शान्त्या निदानम्।
इत्यध्याहार्य रामः प्रसृति करपुटो यं गुरु ञ्चोपसन्नः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 88
त्रिपुरा रहस्यम्
श्रीमातैव स्वमाता प्रकृतिरपि परा रेणुका वैकृतेति
यस्योक्त्या भार्गव स्सञ्चकित इव परा तत्त्व संप्रार्थनेन।
श्री त्रैपुर्या रहस्यं परम मसुलभं येन चाध्यापितोभूत्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 89
प्रत्यभिज्ञानम्
सर्वव्याप्त्री चिदेषा तदधिगतिमतो जीविनः पश्य तत्र
शक्तिं विश्वा मवेया स्सकलपरिगतां प्रत्यभिज्ञान मेतत्।
सृष्टि व्यापार हेतु र्गुणिषु गुण सुधा सेति येनोपदिष्टं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 90
श्रीविद्या सम्प्रदायः
जन्मन्यस्मिन् परस्मिन् द्वितय फलयुतो जामिताशून्य पन्थाः
श्रीविद्या सम्प्रदाय स्सम मुभयविधो दक्ष वामादि तन्त्रः।
सिद्धिं कुर्वन् जगत्यां प्रचरति सुतरां यन्मुखात् संप्रवृत्तः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 91
अलर्क चक्रवर्ती
बाल्ये प्राप्तात्म विद्यः प्रबल गुरु तरे राज्य भारे वबद्धः
काशीराजेन दैवा दचिर सुविजितो लर्कराट् संस्मरन् प्राक्।
सङ्गं त्यक्त्वा सुखी स्या इति विदितमति र्मातृवाक्या- च्छ्रितो यं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 92
दुःखहेतु विचरणा - अलर्कप्रबोधः
दुःखं वेविक्ष्व सोम्य? त्रिभुवन मतत श्चात्मनो? नोत कस्य?
देहो जाड्याभिकॢप्तो ननु विरहितचिद् वर्तते नास्य चापि।
भ्रान्त्या शोको हि तस्मात् त्यज विमति मिति ज्ञापयित्वा य आवीत्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 93
नहुष जननम्
आयू राजा स्वपत्यं जगदति महितं कामयित्वा कृतार्थः
भूयो गर्भाद्यवस्था हनन परमतेर् हुण्डदैत्याच्च रक्षाम्।
शक्रस्थानार्ह पुण्यं नहुष वरसुतं यद् घृणाया हि लेभे
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 94
धर्मकीर्ति प्रबोधः
लिप्सूनां ज्ञान मूरी करणमपि गुरो र्नित्य कर्तव्य मस्मात्
शुश्रूषाभ्यासदीक्षा स्थिरतरमतये धर्मशास्त्रं हि राज्ञे।
अन्वादिश्य प्रपूर्णं जगत उपकृतौ प्रक्रमं सन्दधौ यः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 95
भ्रष्टेपि धर्मकीर्तौ कृपा
सामर्थ्यं योविजानन् स्वकमिह कुरुते यत्न मन्यस्य बोधे
विभ्रष्टो वा भविष्यन् गुरुवर सविधे वर्तमान, स्तथैव।
भ्रष्टं यो धर्मकीर्तिं मरणसमयके पूर्वपुण्या दरक्षत्
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 96
जन्मान्तरानुग्रहः - भद्रशीलः
नैवाप्नोति क्वचैवं चिरमुत विपदं सद्गुरुं संश्रित स्सन्
मुञ्चन्तं नापि मुञ्चे न्निज पृथु करुणा बन्धुरो वत्सलस्सः।
पूर्वस्मा ज्जन्मनो यो हितसुकृतभरं भद्रशीलं तु चक्रे
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 97
अवतार परम्परा
माया भ्रान्तान् समस्तान् पुनरपि जनितां- स्तारकोसौ भवाब्धेः
भूयो भूयोवतीर्णो भुवि कृत विजय स्सन्दयेताभियुक्तान्।
यश्श्रीपादादि रूपी नतजन सुलभो रक्षितेति प्रसिद्धः
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 98
स्तुतिः
नित्य स्सिद्धो हि यस्या- विचलित महिमा कर्मणा नाभिवर्ध्रः
ध्रौव्य स्थाणुत्व हेतो र्भवितु मनुचितं पापलेशानुलेपः।
यस्यानिर्वाच्य तत्त्वं प्रणव रव भृतं मोह शोकादि दूरं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 99
स्तुतिः
शुद्धं चैतन्यमूर्तिं वरद मभयदं ज्ञान विज्ञानकन्दं
बोधात्मानं बृहन्तं श्रुति सुविदितरै र्नोपलभ्यं प्रपूर्णम्।
स्वानन्दैकामृताब्धिं शिवतम मनिशं मादृशै र्भाव्यमानं
तद् ब्रह्मण्यं भजेहं मम हृदि सदयं सच्चिदानन्द दत्तम्।। 100
फलश्रुतिः
स्वामिश्री सच्चिदानन्द गुरुबोधामृतोद्भवम्।
शतकं दत्तदेवस्य दत्तत्वं पठिता भजेत्।।


गुरुवर सुख बोधा दात्त दत्त प्रकाशः
वितरति घनपाठी दत्त सेवानुरक्तः।
उपकृति मुद मिच्छु र्दत्त भक्तेषु नित्यम्
अधिगत करुणांशा ज्जात पद्योपहारम्।।
*****
विदित परम दत्तैश्वर्य दिव्य प्रभावं
लसतु शतक मेत द्दत्तदेवस्य हृद्यम्।
गुरुवर चरणाब्जं सेवमानेषु नित्यं
जयतु च महितेस्मिन् दत्तपीठे विशिष्टम्।।

*****