तं विन्दै महितार्थबोधमनिशं श्रीराम योगेश्वर।।

1.   शरीरभ्रान्तिनिवारणम्

ब्रह्मास्मीत्यहमेकभावमभितो विस्मृत्य देहे स्थिरां

स्वात्मीयामनुभूतिमादरयुता सर्वे जना गृह्णते।

क्षुत्तृष्णामयसम्भृतं भ्रममिमं प्रोज्झित्य रूपे स्वके

बोबुध्यामनलीकभावमनिशं श्रीराम योगेश्वर।।

2.      प्राणोत्क्रान्तिः

प्राणोत्क्रान्तिमुखे हृषीकवलयः तन्द्राविताकारणात्

नाहं नाहमिति स्वकार्यविरतो नोत्सह्य  शंश्रम्यते।

सर्वं हीन्द्रियमच्छ कर्म कुरुते, स्वोत्कारयित्रिच्छया

तं विन्दै महितार्थबोधमनिशं श्रीराम योगेश्वर।।

3.      इन्द्रिय प्रलयः

वाचं चेतसि मानसप्रविलयं प्राणेषु कृत्वा ततः

तूर्णं तेजसि, लापयस्व विपुले सातौ निदाने क्रमात्।

देहात्मभ्रमसम्भवे भज हरिं नैकान्तिकं नोद्विजन्

इत्थं निर्गतिपद्धतेः विविदिषा श्रीराम योगेश्वर।।

4.   प्राणः- मृत्युः

को नामैष हितस्सदैव निहितः प्राणाख्यया विश्रुतः

शारीरं जहतोऽस्य नाम भविता मृत्युश्च कालोऽथ वा।

अन्तस्त्योऽप्युत बाहिरः प्रकुरुते सौख्यं सदा जीविनः

तन्मूलं भवनं ममेति चिनवै श्रीराम योगेश्वर

5.   प्रस्थान-गमनविशेषाः

दीर्घं मार्गमधिष्ठितोसि हि पितः पृथ्वीं नभो वा दिवं

आशा नाकमपीहि यत्तव मनः कीलालमप्योषधीः।

यद्यद्रूपमपीच्छसि प्रविश तत्, किन्तु त्वया रक्षितो

भूयासं निजधर्ममार्गनिरतः श्रीरामयोगश्वर।।

6.   शरीरस्य संस्कारः त्रिवृत्करणमेव

भूमौ शायय संस्कुरुष्व दहने शिष्टं यदस्थ्यादिकं

कूल्याम्भस्सु विसर्जयस्व गगनं यातेऽनिले कायतः।

तेजोवारिमृदां त्रिवृत्कृतमिदं गात्रं पुनः कारणे

कार्यं लापयतीह वेदविधिवाक् श्रीराम योगेश्वर॥

7.   किं सुन्दरम्? शरीरमाहोत्वित् तन्निर्माणम्

गात्रं भाति मनोज्ञरूपि परितो वर्णेन मानादिना

कार्ये सुन्दरता भवेदनुचितं तत्कारणं सुन्दरम्।

द्रष्टुं दुश्शकमेव चर्मनयनैः तन्मात्रताकारणात्

सौन्दर्यं तु विलोकये विभु हृदा श्रीराम योगेश्वर॥

8.   इन्द्रियजन्यं सौख्यमलीकम्

जाड्यं खेषु सुखं च दुःखभरता कुत्रेति सञ्चिन्तयन्

अन्तर्मूलगवेषणेन सकलं सौख्यास्पदाभासकम्।

उन्मूलं सुखदुःखमित्यवगतं बौद्धं मदन्तस्थितात्

स्वानन्दात् न शिनष्टि किञ्चिदपि भो श्रीराम योगेश्वर॥

9.   एकान्तभीतिः

लोकश्चित्रमतिर् बिभेति नितरामन्यस्य सन्दर्शनात्

सोयं चापचिकीर्षुमेति परताभीतेरनेकान्तिके।

एकान्तादपि भीतिमेति सततं संविद्विवेकं विना

त्वं  त्वेकान्तसुखेन सत्यमटसि श्रीराम योगेश्वर।।

10. एकान्तभीतिहेतुः

अस्मद्भिन्नजनः किमत्र कुरुतात् दुःखाय यद्वस्तुनाम्

साजात्यस्य विमोषणान्न नितमा-माभसिकी सङ्गतिः।

सर्वं मायिकमेव पश्य निशितं कुत्रापि किं नाशयेत्

कालेनैव हि नामरूपविकृतिः श्रीराम योगेश्वर।।

11. सङ्गमनो वैवस्वतो यमः

यस्तन्द्रालवलेशमात्ररहितो धर्मात्मकस्साधुकृत्

विश्वेषां जनुषां यथाक्रमनयायोपेयिवानन्तकः।

हूयादाहवनीयके प्रथमतस्तस्मै यमायाहुतिम्

प्रारभ्यं पितृमेधकर्म सुधिया श्रीराम योगेश्वर।।

12. धृतवस्त्र परित्यागः

येनायाति हि ना भुवं तदु विना किञ्चिन्न नेनीयते

सर्वं स्वार्जितसम्पदं विजहिवान् पुण्येन पापेन च।

प्रस्थातेति निरूपणाय वसनं हेयात् शरीरस्थितं

तन्वा आहुतिकर्मणोपि पुरतः श्रीराम योगेश्वर।।

13. पुण्याय स्वार्जितवित्तस्य विनिमयः

इष्टं पूर्तं यदाचरत् फलमतो नीत्वैव गच्छेन्नरः

संपश्येत् परलोकयानसमये वित्तं स्वकं सञ्चितम्।

अन्यस्मिन् परिदीयमानसुभगं बन्धावबन्धावपि

क्रय्यं पुण्यमिह स्वदानविधिना श्रीराम योगेश्वर।।

14. पूषा- सविता- पथदर्शकौ

विद्वान् मार्गमनुत्तमं तु पुरतः पूषा पशून् रक्षिता

अग्नी रक्षक एष देवसविता ज्ञानाय देवान्तिकात्।

नेतारः पितृलोकमार्गविदुराः त्वा प्रीतिमन्तः पितः

सौख्येनेहि कदापि मा विबिभिया श्रीराम योगेश्वर।।

15. पुण्यलोक प्रापक

पुण्यं लोकमवापयिष्यति वरं पूषा दिशां वेदुकः

यत्रैते सुकृतः चकासति जनाः गच्छन्ति दिव्यं पदम्।

गन्तासि प्रविभक्तपुण्यसुषमा लोकं पितॄणां हिरुक्

वन्दे तान् परलोकमार्गनिनुषः श्रीराम योगेश्वर।। (णीञ्, क्वसु)

16. गृहिण्याः जीवलोकपुनरागतिः

हस्तात् ते परिजाग्रहीति गृहिणी भावत्कतेजोर्थिनी

क्लेशं सोढुमसम्मितं सुविरता क्लान्ता समागच्छतु।

लोकं जीववतां पुनर्निविशतां स्वापत्यमोदाय सा

जैत्रास्स्याम तरेमकष्टमचिरं श्रीराम योगेश्वर।।

17. यज्ञपात्राणां च संस्कारः

दध्नाज्येन सुपूरितानि चमसं दर्व्यादि पात्रान्तरं

यद्यद्यज्ञविधावुपेतमस्ति तदिदं संस्थापितं गात्रके।

अग्निस्तानि च संस्करोतु वपुषा साकं समस्तानि ते

वह्नित्वं त्वमुपेयिवन् जय तत श्रीराम योगेश्वर।।

18. दहनात् प्राक् होमः

गोप्तारः पितृलोकयानविविधे ये रक्षितारोभितो

आख्यातार उतासतेभिलपतां वर्गोपलापान्वितः।

अग्निः कर्मकृदस्ति तत्र विबुधो यञ्चापि नाधीमहे

तेभ्यस्स्वाहुतमस्तु मामकमिदं श्रीराम योगेश्वर।।

19.     वक्षोहोमः

अन्तस्तिष्ठत एव रूपसदृशो बाह्यः कृशानुर्मम

दन्दह्येत शरीरविष्टमखिलं खाद्यं तथाशेषतः।

देहान्ते ननु चर्करीति सकलं गात्रं सखा भस्मसात्

तस्मै वक्षसि हूयते किल चितौ श्रीराम योगेश्वर।।

20. इन्द्रियाणां स्वस्वाभिमानिदेवता गतिः

सूर्यं गच्छतु तैजसं तव दृशोः प्राणोपि वायुं बहिः

स्थूलं सूक्ष्ममपैतु खं पुनरपि स्वे कारणे लीयताम्।

जीवस्त्वं पृथिवी मपः प्रविश वा स्वैरं च बेरं नराम्

मुक्त्वा पूर्वतनुं नवं तु लभसे तत श्रीराम योगेश्वर।।

21. दाहकोग्निः शरीरसंस्कर्ता

दन्दह्येत महाग्निरत्र बृहता धूमध्वजेनोत्कटः

द्योरागत्य समुद्धरेज्जनिमतः स्वर्गं प्रणेतुं समम्।

संस्कर्ता स हि वैद्युतो विजयते नेता भवन्तं ज्वलन्

दिव्यं भोगमुपास्व देवसदने श्रीराम योगेश्वर।।

22. तृतीयं दिव्यशरीरम्

प्रत्नं शीर्णशरीरमेवमुज्झसि नवामस्थ्नां द्वितीयां तनूं

ज्योतीरूपमवाप्नुषे दिवि ततस्तार्तीयमिष्टं वपुः।

पुण्याप्ताननुबोभवीषि बहुधा भोगानजस्रं सुरैः

पूज्यस्वाद्य दिवङ्गतार्य सुजन श्रीराम योगेश्वर।।

23. विहायसा गतिः

उड्डेडीहि विहायसामितगते  पक्षी गरुत्मानिव

श्वानावप्रतिरूपकौ यमभटौ  त्वां सारमेयौ पुरः।

अग्रे गच्छ विलोकयन्नुरुतरं तारापथं प्रोज्ज्वलं

देद्योतिष्यसि साधयस्व तरसा श्रीराम योगेश्वर।।

24. नाकलोक संसदः

नाके द्रक्ष्यसि सोमयाजिसुगणान् मध्वाज्यहोतॄन् बहून्

सङ्ग्रामे बहुयुध्वनो नृपवरान् शूरानसुत्यागिनः।

भूयस्तापसपुङ्गवान् मुनिवरान् सुब्रह्मचारीशितॄन्

देवस्तत्र दधातु पुण्यसदने श्रीराम योगेश्वर।।

25. अवसानदाता - यमः

पूर्वे(अ)पेत च वीत कालगतिकाः प्रेष्याः कृतान्तस्य ये

नूत्ना गच्छत राजते प्रभुरयं लोकस्य वैवस्वतः।

कालो(अ)सा.ववसानदाननिरतः प्रेतस्य सन्धायकः

लोष्टास्थीनि निधातुमेष समयः श्रीरामयोगेश्वर।।

26. द्वितीयाहे अग्निशमनम्

क्षीरेणोदकधारया हुतवहं यस्संस्कृतिं तेकरोत्

प्रस्थीष्णो शमयामि तं भवतु ते शान्तिः प्रयाणेन्वहम्।

क्याम्बूश्शैवलमम्बुजातमसितं दूर्वाप्ररोहो भवेत्

दाहोत्थापदपैतु सा पितृवने श्रीराम योगेश्वर।।

27. पिपिलादि बाधया आनृण्यम्

देहं तेवबबाधिरे च शकुनाः दाहात् पिपीलाः पुरा

तेनानृण्यमवाप्तवानसि गदं जेह्रीयतां सर्वभुक्।

सोमो ब्राह्मणभावनोपि भवतस्संमर्डिता पायकः

संपूर्णं व्यथनं परेहि च पितॄन् श्रीराम योगेश्वर

28. अस्थिषु सूक्ष्मप्रवेशः

संस्कारस्तु कृशानुना च विहितः शिष्टो यदस्थिव्रजं

किञ्चिच्छेषमपीह मा त्यज विशेः सूक्ष्मां तनूं भोगिनीम्।

तां संभृत्यतनूं प्रविश्य सलिले शान्तिं समाप्तास्यसौ

अग्निस्संगमयेत नूत्नवपुषा श्रीराम योगेश्वर।।

29. द्वितीयाहे रुद्र-यम-प्रेतराजपूजनम्

पत्नीमात्मभुवं स्वमित्रविसरं स्वं च श्मशाने तनुं

त्याजं त्याजमहो भवेत् परिजनस्त्वेकः प्रयाणे यतः।

तस्मात् प्रेतसखो यमो विजयते रुद्रोपि सोपस्करं

स्निग्धौ तौ परिपूजयेयममरौ श्रीराम योगेश्वर।।

30. अस्थिनारायण पूजने मन्त्राणां तात्त्विकता

यत्र क्वापि चिनोति चेत् जनगणो, लभ्येत सर्वात्मता

लम्भं लम्भमिदं विवेद समतां देहे तदस्थिष्वथ।

सर्वात्मस्थितिबोधमन्त्रपठनात् संस्कारकर्मान्तरे

बुद्धिर्मे परिनिष्ठिता भवति भो श्रीराम योगेश्वर।।

31. लोष्टचयन प्रयोगः

लोष्टास्थ्नीनि समुच्चितानि दहनस्थल्या अदूरे पदे

माताभूमिरियं ददातु शरणं सूपायना प्रीतितः।

दूराध्वेति ददामि लोष्टचयने मन्थेनयुक्तां स्वधां

तृप्या जोषमपूपमत्र निहितं श्रीराम योगेश्वर।।

32. लोष्टचयने नलप्लवः

आरोहात्र नलं प्लवं प्रतर भोः वैवस्वतस्याध्वनः

सौख्येन प्लव सङ्गमिष्यसि पदं यम्या यमस्योभयोः।

अध्यष्ठाः तत तत्त्वमुत्तमविदं लोके पितॄणां चिरं

यावत्कर्मफलं समेधि ससुखं श्रीराम योगेश्वर।।

33. लोष्टचयने ओषधीनां वापः

यद्यङ्गं प्रजहाति जीवनिवहो रिच्येत भूमिर्भृशं

तस्माल्लोष्टचितौ वपामि तरसा हार्म्यं सुबीजात्मकम्।

भूरित्वं प्रतनोतु जीवविसरे संवर्धतामन्वयः

सीदेयुः पितरः प्रजापतिरपि श्रीराम योगेश्वर।।

34. लोष्टचयने पञ्चधा स्वधा समर्पणम्

एषा ते यमसादनेस्तु चरुभृत्.स्थाली घृतेनान्विता

क्षीरेणापि शृतेन दुग्धपयसा क्षौद्रेण पूर्णा स्वधा।

यापूपेन समायुता प्रणिहिता वेदीषु पञ्चस्वथो

गोप्तृभ्यः परिदेहि भक्ष मधुरं श्रीराम योगेश्वर।।

35. दुःखान्तर निवृत्तिः

अन्यामार्तिमितोपि मानुभवतात् काञ्चित् विपत्तिं पुनः

नासत्यौ कुरुतां तथा च वरुणो मित्रो जगद्बान्धवः।

जेह्रीयस्व वनस्पते वरणराट् क्लेशं शमीरूपधृत्

क्लेशं नैर्ऋतबाधनं प्रहरतात् श्रीराम योगेश्वर।।

36. बन्धूनां प्रार्थनम्

चित्याग्निं समुपस्थिताः प्रवृणुयुः पूर्णायुषं बान्धवाः

यत्नात् वेतसमालिनः सुमतयो ज्येष्ठानुपूर्वा मम।

स त्वष्टा च विनूत्नरूपकृतिमान् सौख्यं चिरं कल्पयेत्

धाता लोकविधातृपुण्यकरणः श्रीराम योगेश्वर।।

37.     शिलावाहनम् - दशदिनस्नपनादि

प्राचीनात् तु कलेवराद् दृषदि तत्रावाहयेत् प्रस्थितम्

अग्नेर्दाहकृत-व्यथापनयने पाथोमृदा स्नापयेत्।

वासस्तोय तिलाम्बु पिण्डदानविधिभिः प्रेतं समाप्याययेत्

एवं नित्यविधिर्दशाहकालमुचितः श्रीराम योगेश्वर।।

38. पितृभ्यः समर्पणे सङ्कल्पमहिमा

यन्मे श्रद्दधतस्तिलेन सहितः प्रत्येकनाम्नान्वितः

पाथोबिन्दुरभीप्सितश्च पितृभिस्सन्तर्पणे शक्तिमान्।

सङ्कल्पो हि महान् सुतुष्टिगमको द्रव्येण तुच्छेन तु

श्रद्धाभक्तियुतो हि कर्म विदधै श्रीराम योगेश्वर

39. पिण्डभक्षणे सर्वात्मस्थिति बोधकता

गोतां  वायसगृध्रतां जलजतां स्वीकृत्य वाऽग्नेर्मुखात्

पिण्डान्नेन तिलाम्बुना च  नितरां तर्पिष्यसीत्याशया।

हृष्यन्तं विबुभुत्सया विरहितं  मामुत्तमं शिक्षयन्

सर्वात्मस्थितिदिव्यबोधमकरोः श्रीराम योगेश्वर।।

40.  मानुषजन्म सार्थक्यम्

रूपं नाम दरीध्रिये बहुविधं  स्वेच्छावशो वान्यथा

पूर्णायुष्यमितोस्मि कतिधा मध्येपि मृत्युं गतः।

अन्ते मानुषरूपमाप्य तु पुनर्मोघं करोमीति मा

चोक्रोधीरहमस्मि मुक्तिपथिकः श्रीरामयोगेश्वर।।

41. आशौच नियमः

पार्थक्यं जनसङ्गतेरनुभवन् प्रेतात्मसम्बन्धतः

आशौचं परिचर्य लोकनिवहो रात्रीश्च तिस्रो दश।

औदासीन्यविषादभावविहतो कर्मण्यताविह्वलः

स्वस्थः कालवशा.न्नवीभवति भोः श्रीराम योगेश्वर।।

42. आशौचकाले आमद्रव्यसमर्पणम्

आम द्रव्यसमर्पणं प्रतिदिनं चेक्रीय्यते भूसुरे

पक्वान्नस्य चिखादिषाविरहिताहेतोः प्रबोधाय वै।

शक्तिर्नो यदि मृष्टभोजनविधौ देयादपक्वानि वा

भोज्यन्तां पितृरूपिणो द्विजवराः श्रीरामयोगेश्वर।।

43.     एकादशाहे एकोद्दिष्ट श्राद्धम्, षोडशपिण्डदानम्

एकाकी भुवमुज्झिता पितृभुवं गन्तास्ति दीर्घाध्वगः

एकोद्दिष्टविधिं सुपिण्डमचिरादेकादशाहे सुतः।

एकस्मिन्नमुके विहायसगतौ मास्यानि वै षोडश

पाथेयं प्रददीत रागसहितः श्रीराम योगेश्वर।।

44.     अग्नावेव आद्यपिण्डसमर्पणम्

विप्रो वह्निरिति ब्रवीति वेदवितति-स्तस्मिन्नलब्धे सति

हूयादन्नमशाशिषीष्ट पितृमानग्निस्तु कव्यादतः।

अग्नावाद्यमिहार्प्यतां पितृकृते सन्तारके पावके

भावैक्यं परिपश्यता खलु भवन् श्रीराम योगेश्वर।।

(आशाशिषीष्ट- अशँ भोजने- यङ्- आशीर्लिङ्)

45.      द्वादशाहे वैतरणी गोदानम्

दुर्गां वैतरणीं कठोरपरिखां वैवस्वतद्वास्स्थिताम्

या धेनुर्वरवर्णिनी तु पितरं स्रोतस्विनीं तारयेत्।

तत्संज्ञां प्रददीत गां दशविधं दानीयवस्तूत्तमं

लोकालिं तितरीषितुं यियतिषुः श्रीराम योगेश्वर।।   (तारयितुं इच्छुः)

46.     सर्वलोक सञ्चारिणो जीवस्य पुनःकुलप्रवेशः

अत्यन्तं सुविशाललोकसरणिः यत्र क्व चापीच्छुकः

सूक्ष्मं बेरमधिश्रितोऽसि हि पितः संबंभ्रमीष्याततः।

वंशोद्वर्धनकामना यदि भवेत् त्वत्  पौत्रकस्यापि तत्

सन्तत्याः विश गात्रकं परिवृढं श्रीराम योगेश्वर

47.     त्वष्टृपूजा- मृतस्य पुनःकुलप्रवेशः  (मयोभूर्वातः)

जीवे गच्छति कायमुज्झति कदाचिन्नूत्नमन्विच्छति

लोकाख्यं रथचक्रमाभ्रमयिता त्वष्टा तदोत्पित्सति।

एवं कालवशाद्धि सृष्टिकलना सम्भाव्यते तत्क्रमे

वेविश्यस्व कुलं समेधय सदा श्रीराम योगेश्वर।।

48.     गोमिथुनप्राशस्त्यम्

गामेव प्रतिकर्म दित्सति नरो धेनुं कुलोत्तारणे

किञ्चेद् गामृषभं विहाय कुरुते तत् कर्म सम्पद्यते।

तस्माद् गोमिथुनं प्रपूज्य सततं देयाद् कुलोद्वृद्धये

एवं सृष्टिमनूद्य पान्तु मनुजाः  श्रीराम योगेश्वर।।

49.     जीवस्य पुण्यपापमात्रग्रहणम्

एतावच्चितभोगभाग्यमखिलं जीवो जिहीतेऽधुना

जन्मानन्तरमाप्य तत्र चिनुते भोग्यं पुनस्सन्ततम्।

भावग्राहिजनार्दनांशलवभाक् तत्पुण्यपापे विना

किञ्चिन्नापि नयेत सर्वजनिषु श्रीराम योगेश्वर॥

50.     दशमेहनि अघापनुत्तिः

एनोराशिभरेण नाकगमनं क्लिष्टं भवेदेव तत्

भाराघापनुदं जुहोमि दहनं पापापनुत्त्यै ततः।

पश्चाज्जीवगतिस्सुखेन भवतादित्युच्यते श्रौतवाक्

एवं पापविनाशनं प्रभवतु  श्रीराम योगेश्वर॥

51. वसुरुद्रादित्यरूपाणि

प्रत्यब्दं गतपूर्वजा वयमितस्संस्मृत्य रुद्रान् वसून्

आदित्यानिति तर्पयेम हि पितॄन् मातॄरपि श्रद्धया

अस्मन्निर्गमनेन ते पितृगतिं सन्त्यज्य लोकं स्वकं

यास्यन्तीति मृतेरनन्तरगतिः श्रीराम योगेश्वर।।

52.     सपिण्डीकरणम्

सापिण्ड्यं त्रितयस्य सम्भवति यत् तुर्ये गते पूरुषे

तत्पिण्डं प्रविभज्य पूर्वपितृषु प्रत्नं दिशन् स्वेष्टये।

तन्तुं सन्ततिरूपमच्छ करवै हेतोः पितॄणस्य मे

वैधं धार्मिकमर्म बोधय गुरो श्रीराम योगेश्वर।।

53.     यथेच्छसि तथा गच्छ

कीदृग्यानमभीप्सति भवान् पृथ्वीं नभो वा दिवम्

सर्वाशा विजिहीर्षते यदि परब्रह्मात्मसंस्थां शुभम्।

वाञ्छेर्यत्तु मनुष्यतां विश पयः प्रौढा इमा ओषधीः

अस्मद्भाग्यमिति ब्रुवीमहि वयं श्रीराम योगेश्वर।।

54.     बिम्बप्रतिबिम्बभावः

जीवोऽपीह विचित्रकार्यरुचिरः स्वात्मीयभावापृतः

कायाहङ्कृतिमण्डितो विहरते देशेऽपि काले स्वताम्।

स्वाच्छन्द्येन जहाति सृष्टममितं प्रध्वंसाभावावृतः

बिम्बस्य प्रतिबिम्बतेह लसति श्रीराम योगेश्वर।।

55. श्राद्धीय समर्पणे लज्जा

श्राद्धीयं बहुकष्टसाध्यमपि यत् वस्तु प्रकृष्टं ददत्

संशेते किल कर्मठो मम हितं क्लेशाय कल्पेत वा?

ह्रीच्छन्नेव समर्पयेत् द्विजवरे सप्रश्रयो भक्तिमान्

डिम्भो हीव भवानि तातसविधे श्रीराम योगेश्वर।।

56. अर्चनम्

गेहे चत्वरसंगत द्विजपदौ प्रक्षाल्य, चास्यासने

सम्मान्यार्घ्यमथाष्टवस्तुभरितं दत्त्वा च वासोद्वयम्।

रौप्यामत्रपुटे समृद्धरुचिरं सोपस्करं भोजयेत्

पूजा दैवतपूर्विका हि भवतात् श्रीराम योगेश्वर।।

(आस्य – उपवेश्य, आङ्, आसँ उपवेशने, ल्यप्)

57.     वस्त्रसमर्पणम्

अन्तःप्रावरणं च बाह्यवसनं कार्पासकं पावनं

पित्रे तेऽहतमर्पये  द्विजमुखात् तृप्यस्व तृप्यस्व भोः।

नेदीयानिति चोत्तरायुषि ददे विच्छिद्य लोमाऽपि ते

यद्यद्देयमिहास्ति मे भवतु ते श्रीराम योगेश्वर।।

58.     वर्तुलमण्डलरचनस्य औचित्यम्

भ्रान्तिर्जीवगणस्य तथ्यमिति वै पाद्यार्घ्यभोज्यस्थले

पैत्रं वर्तुलमण्डलं विलिखितं संद्योतयन् संसृतौ।

आवृत्तिस्तु गतस्य सम्भवति तत्- पुत्रे च तत्सन्ततौ

जानेऽहं परमण्डलप्रमितिमान् श्रीराम योगेश्वर।।

59.     समानकालप्राप्तौ पितृकर्मणः अवश्यकरणीयता

दैवं पैतृकमस्ति कर्मविधता भेदाभिसन्धीरिता

पौर्वापर्यविरोधिताकसमये पैत्रं क्रियेतादितः।

सर्वो दैवविधाविहार्हति पुनः कर्माधिकारी सुतः

तस्मात् श्रद्धितकर्मणा परिचरै श्रीराम योगेश्वर।।

60.     वैश्वदेवस्थानम्

अर्च्यौ द्वावपि विश्वदेवपदवी.संस्थौ पितुर्देवताः

प्राञ्चौ हन्त पूरूरवार्द्रव मुखौ कालाख्यकामाभिधौ।

वैरुध्यापहृति.प्रकाशनपरं दैवार्चनं पैतृके

सम्भाव्यार्चनमादरेण विदधे  श्रीराम योगेश्वर।।

61. चतुरश्रमण्डलरचनम्

दैवादेव विगाहते हि पुरुषो यत्त्याश्चतुष्के स्वके

दैवे कर्मणि मण्डलं तु भवतात् तस्माच्चतुस्स्रक्तिमत्।

धर्मार्थः किल काममोक्ष इति मे द्वावेव मुख्यौ ततः

द्वौद्वौ विश्वसुरौ सिषेविषुरहं श्रीराम योगेश्वर।।

62. अग्नौ करणम्

भोक्त्रर्थे परिवेषणाय परमं शुद्धान्नमावश्यकम्

तस्मादोदनशोधनाय हुतभुक्स्वाहाकृतिं कल्पये।

सोमायापि यमाय कव्यसुहुते भागत्रयं  दत्त्रिमः

पश्चात् पित्रशनाय सम्भृतिमियां श्रीराम योगेश्वर।।

63.     श्राद्धे भोजनविधिः

पात्रोपस्तरणं च पत्रयुगले व्रीह्योदनं पायसं

गव्यं ते घृतमर्पये सुविहितं भक्ष्यं सुभोज्यं रसम्।

लेह्यं चोष्यममोघ.मस्तु मधुरं पानं सुचूर्णं फलं

विप्रास्येन समद्धि भौजनविधौ श्रीराम योगेश्वर।।

64.     ह्रीका हि पितरः - भोजने व्यावर्त्योपासनम्

भुञ्जानाः खलु विप्रवर्यनिवहा जेह्रीच्छतीक्षावशात्

तस्मात् भोजनसंगतौ परिचरेत् तद्दृष्टिपातं विना।

व्यावर्त्यैवमुपास्यतां द्विजवरै-रूष्मा च यावद्भवेत्

एवं भोजनकौशलं मम दिश श्रीराम योगेश्वर।।

65. विकिर पिण्डः

अस्मद्गोत्रमृतासु यास्तु विधिवत्.संस्कारमावर्जिताः

यासां नाम विजानते न कुलजाः तस्मिन् कुलस्त्रीमुखे।

दद्यामन्नपुलाकपुञ्जविकिरं तासां गतिश्चोत्तमा

भूयादित्यपि याचितं प्रविदधे श्रीराम योगेश्वर।।

66. पितृ पिण्डः

अन्नं यत् पुरुषोशिता तदु भवेत् पित्रर्पणाय स्मृतम्

भोज्यांशान् मधुसर्पिरादि चमसे मिश्रीकरिष्यामि ते।

उच्छिष्टस्य च सन्निधाविह ददे बर्हिष्यपिण्डत्रयम्

पित्रे त्वत्प्रपितामहाय तव ते श्रीराम योगेश्वर।।

67. वीरं धत्त पितरः

अश्रद्धाहित पिण्डदान सतिलाऽम्भोतर्पणे भोजने

होमे वा यद्यपराद्ध.मास्त सदयाः दोषान् क्षमध्वं तताः।

वीरं धत्त च हार्ष्ट मा सुतततिं गेहं प्रदद्ध्वं च नः

पुत्रोऽनुग्रहमोदमीप्सति तत श्रीराम योगेश्वर।।

68. षोढा नमस्कारः

पित्रोः प्रीतिमभीच्छता प्रतिदिनं कार्या नमस्या सनात्

षोढा तद्गतगौणमिच्छ रसकं शुष्मं स्वधां जीवकम्।

मन्युं घोरमितोपि नन्नहि ततो भूया वसिष्ठो भवन्

वासिष्ठत्वमयान्यहं ततवरात् श्रीराम योगेशवर।।  [1]  (षट् नमस्काराः - रसः (सारः) शुष्म (बलम्) जीव (जीवात्मा/ प्राणः) स्वधा (अन्नम्/ हविर्दात्री), मन्यु (क्रोधः/दीप्तिः) घोरं (शिक्षारूप उग्रता)

69. प्राजापत्यया ऋचा पितृलोकात् पुनरागमनम्

उन्नेता सुकृती प्रजापतिरसा.वस्मन्निदानं ततः

यत्कामाः किल जोहुमो रयिपतिं तन्मन्त्रपापाठकाः।

यज्ञानुष्ठितिकारणात् पितृकृते.रीयस्म लोकं स्वकम्

जेजीव्येमहि पूर्णमायुरयितुं श्रीराम योगेश्वर।।

70. यमबलिः

आपो नद्य इमा भवन्ति सुदृढाः भूमिश्च येनाविता

कौष्ठ्यो यस्य जगत्पतेस्स्म चरितं जागाति भङ्ग्यश्रवः।

प्रीतस्तद्यमगाथया पितृपतिः कुर्याददुःखं तव

कीनाशोनपरोध्यशुष्मगरिमा श्रीराम योगेश्वर।।

71. यमयज्ञद्रव्यम्

ऊर्जे भूततिथौ यमाय विदधे यज्ञं भवत्कारणात्

मध्ये दिक्षु च वेदिका विरचयन् कुण्डं कृशानोरुदक्।

खात्वोत्सं तिलमिश्रगौडबलिना सेवेय दध्नं क्रमात्

एवं मास्यविधेः प्रसीदति यमः श्रीराम योगेश्वर।।

72. यमाह्वानम्

आयातीह परेतराड् रिपुगणध्वंसी कृतान्तो मखे

रक्षत्येष समस्तवैरिपटलात् स्वैरूतिभिर् मामके।

आसीनो मृदुबर्हिषि प्रविलसन्नूर्जे प्रजात्यै स्थिरो

यौष्माकान्वयवृद्धयेस्तु शमनः श्रीराम योगेश्वर।।

73. विधिकृत्येषु असन्तृप्तः

अश्वं गां पुरुषं जनूंषि नयते विश्रान्तिहीनो यमः

मर्त्यस्सत्यवचा अलीकवचनो वेविच्यते कर्मणा।

स्वेस्वे कर्मफले दधाति सततं नास्यास्ति सन्तृप्तता

सन्तृप्यात् समवर्तनस्त्वयि सदा श्रीराम योगेश्वर।।

74. यमलोक सङ्गमः

ऊर्ध्वं मूलमवाञ्चि पर्णनियुतं वृक्षे तु यत्रामराः

यत्रैभिः सहपुण्यभोगवशिभि.स्सालोक्यमीष्टे यमः।

तस्मिन् दिव्यसुविष्टपे प्रदिशतात् वासं तवौदुम्बरः

प्रार्थं प्रार्थमिति प्रदापय तत श्रीराम योगेश्वर।।

75. यमो भूमिं धारयते

जायन्ते हि परस्सहस्रममिताः प्राज्यं विभिन्ना जनाः

निष्क्रान्तिर्यदि नास्ति, तेषु भवितापत्तिर्विनाशोन्मुखी।

दाधारैष भुवं जगत्पतिरसौ सन्तोलयन्नत्ययात्

सोयं दीव्यतु भूमिभारशमनः श्रीराम योगेश्वर।।

76. पूर्णायुष्य प्रार्थनम्

सर्वे सन्तु निरामयाः परिवृढा अस्मत्कुलीना जनाः

मातिक्रम्य कनीयसा तु वयसा ज्येष्ठो विहीयेत वा।

पूर्णायुष्यमवापयेद् गृहपतिं प्रश्रेयसोषर्बुधः

मा भावीत्यपमृत्युना स्तुतिरियं श्रीराम योगेश्वर।।

77.  अनुक्रमेण जीवेयुः

एकं मासमनुक्रमेत सततं मासः परः तद्यथा

नक्षत्राण्यृतवोप्यहानि नितरां नातिक्रमं कुर्वते।

एवं वंश्यजनेषु कालकलिता प्राक् ज्यायसः सन्ततिः

मा पञ्चत्वमुपैतु धातृकुपया श्रीराम योगेश्वर।।

78. सूर्याग्न्योः तेजसा पुनर्निधन प्रस्ताव निराकरणम्

सूर्याभिन्नसमानकान्तिरमणः स्वांशेन सूर्यं गतः

सन्तन्यात् ज्वलनः प्रशान्तदुरितः भद्रं सदास्मासु च।

मा कार्षीत् पितृमेधरूपमशिवं क्रूरं मृत्योरिहास्मज्जनः

कप्यग्न्योरमितौजसैव हिनुयात् श्रीराम योगेश्वर।।

79. पुनराशास्तिः

येमी प्रस्थितजीवबन्धव इदं सानन्दमाशास्महे

भद्रेच्छायुतदेवहूतिमुभयीं सौभ्रात्रभावा वयम्।

प्राञ्चो याम हसेम पूर्णविभवाः नृत्येम गायेम वा

कर्मण्या भवदीयमार्गनिरताः श्रीराम योगेश्वर।।

80. पुनरुक्तिः

को दोषः पुनरुक्तिरूपवचने सोभ्यासरूपो नये

बाला वा जरठाः प्रमोदभरिता योषिद्युवानस्तथा।

स्वां प्रीतिं प्रकटीचिकीर्षुमनुजाः आचक्षते ते भृशं

तस्माच्छ्राद्धविधौ हि नाम विशचे श्रीराम योगेश्वर।।

(शच व्यक्तायाँ वाचि)

81. आशीः प्रत्याशीः

दातृत्वं मम वंशजेष्वभिमतं वेदप्रचारो गृहे

श्रद्धा कर्मणि सम्भवेत् बहुविधा रायां सुपोषस्सदा।

अभ्यागन्त्रतिथिद्वयं च भविता मा द्रापिता भून्मिथः

शश्वद्दानधुरीणतामनुभजै श्रीराम योगेश्वर।।

82. गया

वाग्दानेन हरिर्गयां प्रणिदधौ श्राद्धस्य मुख्यस्थलीम्

पिण्डं तत्र जनार्दनस्य चरणे दत्तं प्रदत्तं भवेत्।

वृक्षच्छायसुतीर्थयोर् हरिपदे पिण्डप्रदानोत्कटान्

श्रद्धित्सूननुजाग्रहीतु भगवान् श्रीराम योगेश्वर।।

83. अनुज्ञा प्रार्थनम्

यद्यप्येतदसीमरागभरता याचाम्यनुज्ञां तव

कर्तव्यं बहु वर्तते मम विधिप्राप्तं ततस्साधये।

प्राजापत्यमुदीर्यते मिथु वरं स ह्युद्धरेन्मादृशान्

गम्यासं कृतकृत्यतामनुदिनं श्रीराम योगेश्वर।।

84. किं ग्राह्यम्?

निर्व्याजेन कुरुष्व कार्यमधुना येनोपाकार्यः परः

तत्क्लेशं परिमार्ष्टुमिच्छ परितः सेवस्व देवं सदा।

नाम्नां कीर्तनमाद्रियस्व सततं वैराग्यभावोन्मुखः

तां ते कर्मविधामयाम नितरां श्रीराम योगेश्वर।।

85. सौजन्यम्

पाण्डित्यं परमेश्वरप्रणिहितं विस्मृत्यधीनं स्वकम्

वित्तं स्तेननृपालकैः परिहृतं स्यादार्जितं जीवने।

स्वास्थ्यं कालवशादपैति झटिति क्लान्तस्य मे शिष्यते

सौजन्यं तव संक्रमादुपहितं श्रीराम योगेश्वर।।

86. देव- गुरु-पदे लयः

त्रेतांशं भवति ध्रुवं हरिपदं दृश्यो न दैवांशकः

गुर्वंशोपि पितृस्वरूपकलनादृष्टो द्वितीयो गतः।

यश्चांशोप्यवशेषतां मयि भजन् भाति प्रदीपः कथं

सङ्गच्छेत पदं स्वकं सुजनुषो मुक्षीय चाहं कदा??

87. समर्पणम्

यावत् स्वस्थितिवेदुका मम मतिः स्वात्मस्वरूपे लयं

यावच्चेतसि विद्यते प्रभवता स्मर्तुं परेशं विभुम्।

यायत्येर्पणमस्तु मे गुरुवर श्रीसच्चिदानन्दभाक्

लेलीये भवदीयबोधजनित प्रद्योतमानमृते।।

88. समाप्तिः

पञ्चत्वं समुपागते पितरि मे श्रीराम योगेश्वरे

को जीवः किमु मृत्युरित्यवगतौ सम्भ्रान्तचित्तस्य यत्।

सार्धें मासि यदायतं यदुचितं चित्तच्युतात् प्रस्रुतम्

तच्छ्रौतं पितृकर्मवाक्यनिहितं ज्ञानं भवेत् श्रेयसे।।

महानवमी 1 अक्टोबर् 2025, मैसूरु