अवधूत दत्त पीठाधिपतीनां जगद्गुरूणां
परमपूज्यानां श्री श्री गणपति सच्चिदानन्द स्वामि श्रीचरणानां दिव्य सन्निधौ,
तदन्तेवासि परमहंस परिव्राजकाचार्य श्री दत्त विजयानन्द तीर्थ स्वामि चरणाना माध्यक्ष्ये निरूढायां
अवधूत दत्त पीठस्य विद्याधिकारि पदवी मलङ्कुर्वाणानां
श्रीमतां कुप्पा वेङ्कट कृष्णमूर्ति महोदयानां
षष्ट्यब्दपूर्ति महोत्सव सम्मान सभायां समर्पिता साशीर्क प्रणति पत्रिका
कौण्डिन्यान्वय सुप्रदीपक यजुश्शाखीय विद्वन् गुरो
वैदुष्यं समजीगम स्सुविशदं पित्रो स्सकाशाद् भवान्।
स्वीयान्वीक्षिकया तनोषि महतीं छन्दस्वतीं भारतीं
कुप्पा वेङ्कट कृष्णमूर्ति गरिमन्नाशास्महे ते शुभम्।। 1
पौर्वात्या महनीय बुद्धि फणितिः सूक्ष्मेक्षिका पश्चिमा
विद्येते सम मुत्तमे सुधियि ते छन्दस्सु विज्ञानताम्।
सेवेहं त्विति सर्ववेदसुविदं सर्वेषु सञ्चारयन्
कुप्पा वेङ्कट कृष्णमूर्ति गरिमन्नाशास्महे ते शुभम्।। 2
दत्तात्रेय कृपाविशेष बलवन् श्रीसच्चिदानन्द सद्
गुर्वादेशविशेषभाजन महन् षष्ट्यब्दपूर्त्युत्सवे।
सान्निध्येन गुरोःपदेन नितरां सम्भाव्यमानाग्रणीः
कुप्पा वेङ्कट कृष्णमूर्ति गरिमन्नाशास्महे ते शुभम्।। 3
========================================
विकृति संवत्सर चैत्र शुक्ल प्रतिपत् शिष्याभिमानि पक्षतः
16- 03 – 2010 वंशीकृष्ण घनपाठी