माता च पार्वतीदेवी पिता देवो महेश्वरः।
बान्धवा श्शिव भक्ताश्च स्वदेशो भुवनत्रयम्।।
भिक्षां देहि कृपावलंबनकरी मातान्नपूर्णेश्वरी।। 17
अन्नपूर्णे सदापूर्णे शंकर प्राणवल्लभे।
ज्ञानवैराग्य सिद्ध्यर्थं भिक्षां देहि च पार्वति।। 18
अहं वैश्वानरो भूत्वा प्राणिनां देह माश्रितः।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विधम्।। 19
ब्रह्मार्पणं ब्रह्महवि र्ब्रह्माग्नौ ब्रह्मणा हुतम्।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना।। 20